सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । विशेषलक्षणं चैव कथयिष्यामि संशृणु । तस्मात् परतरं नास्ति(म त)त्रमध्ये महेश्वरि ॥ २६२ ॥ कुमारी पूजयित्वा च शिवत्वं गतवानहम् । कृष्णत्वं गतवान् कृष्णो ब्रह्मत्वं गतवान्(मुदा विधिः) ॥ २६३ ।। इति श्रीबृहन्नीलतन्त्रे भैरव भैरवीसंवादे (निग्रहादिप्रयोग-कु- मारीपूजाक्रमनिरूपणं) सप्तमः पटलः ॥ ७ ॥ अथ अष्टमः पटलः । श्रीभैरव उवाच । यत्रं शृणु वरारोहे येन सिद्ध्यति निश्चितम् । ततो लिखेद् यन्त्रराजं समस्तपुरुषार्थदम् ॥ १ ॥ यस्य विज्ञानमात्रेण सद्यः खेचरतां व्रजेत् । आदौ त्रिकोणं विन्यस्य त्रिकोणं तद्वहिर्न्यंसेत् ॥ २ ॥ बहिस्त्रिकोणमालिख्य षट्कोणं तद्वहिर्न्यसेत् । मध्ये तु बैन्दवं चक्रं मायाबीजविभूषितम् ॥ ३ ॥ षट्कोणं तद्वहिर्वृत्तं ततश्चाष्टदलं लिखेत् । बहिर्वृत्तेन संयुक्तं भूपुरेणैव संवृतम् ॥ ४ ॥