सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

- ११६ बृहन्नीलतन्त्रम् । प्रणवं काकिनी चैव बिन्दुयुक्तां सनातनीम् । वागीश्वरी-पदं चोक्त्वा कवचाय हुमीरितम् ॥ २६८ ॥ मायाबीजं समुच्चार्य अस्त्राय फडिति क्रमात् । वाग्भवं च सिद्धि-पदं जयाय तदनन्तरम् ॥ २६६ ॥ पूर्ववक्त्राय देवेशि हृदन्तेन प्रपूजयेत् । पुनर्वाग्भवबीजं युतमुत्तरवक्त्रकम् ॥ २७० ॥ नमोन्तेन महादेवि पूजयेत् सुरसुन्दरीम् । प्रणवं च महेशानि कालिके-पदमन्तरम् ॥ २७१ ॥ दक्षवक्त्राय तत्पश्चाद् नमोन्तं भैरवप्रिये । वाग्भवेन पुरक्षोभं मायाबीजे गुणाष्टकम् ॥ २७२ ॥ श्रीबीजेन श्रियो लाभो ह्रींबीजनारिसंक्षयः । भैरवेण तु बीजेन खड्गानामपराजितम् ॥ २७३ ॥ कुमारिकाष्टकं वाथ सदा त्वं च कुमारिका । अष्टोत्तरशतं वापि एकां कन्यां प्रपूजयेत् ।। २७४ ॥ पूजिताः पूजयन्त्येता निर्दहन्त्यवमानिताः । कुमारी योगिनी साक्षात् कुमारी सर्वदेवताः ॥ २७५ ॥ भूर्भुवमूर्तिका देवी कुमारी च प्रपूजिता । असुरा दुष्टनागाश्च ये ये दुष्टग्रहा अपि ॥ २७६ ॥ भूतवेतालगन्धर्व-डाकिनीयक्षराक्षसाः । हृदयं देवताः सर्वे भूर्भुवश्चैव भैरवि ॥ २७७ ॥ प्रथिव्यादीनि सर्वाणि ब्रह्माण्डं सचराचरम् । ब्रह्मा विष्णुश्च रुद्रश्च ईश्वरश्च सदाशिवः ॥ २७८ ॥ ते तुष्टाः सर्वतुष्टाश्च कुमारीं यः प्रपूजयेत् । कालाग्निशिवपर्यन्तं तथा गौर्यादिसंस्थितिः ॥ २७६ ॥ १ 'चर्यादि' ख. पाठः।