सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१३९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । परापरात्मिका चैव तृतीया च परापरा । यत्र काले न किञ्चित् स्याद् देवासुरमहोरगाः ॥ २४४ ॥ त्रैलोक्यं न त्वमहं तदा जाता कुमारिका । आद्यसृष्टिकरी या तु प्रत्यक्षा साभवत् त्रिधा ॥ २४५ ॥ उमाकला तु सा जाता सृष्टिरूपा भवान्तरे । एकवर्षा भवेत् सन्ध्या द्विवर्षा च सरस्वती ॥ २४६ त्रिवर्षा च त्रिधा मूर्तिश्चतुर्वर्षा च कालिका । सुभगा पञ्चवर्षा च षवर्षा तु उमा भवेत् ॥ २४७ ॥ सप्तभिर्मालिनी चैव अष्टवर्षा च कुब्जिका | नवभिः कालसकर्षा दशभिश्चापराजिता ॥ २४८ ॥ एकादशे तु रुद्राणी द्वादशाब्दे तु भैरवी । त्रयोदशे महालक्ष्मीर्द्विसप्ता पीठनायिका ॥ २४६ ।। क्षेत्रज्ञा पञ्चदशभिः षोडशे चर्चिका मता । एवं क्रमेण संपूज्या यावत्पुष्पं न जायते ॥ २५० ॥ प्रतिपदादिपूर्णान्तं वृद्धिभेदेन पूजयेत् । महापर्वसु सर्वेषु विशेषाच्च पवित्रके ॥ २५१ ।। महानवम्यां देवेशि कुमारीं च प्रपूजयेत् । पिङ्गलां पूजयेद् यस्तु षोडशे चैकभक्तिमान् ॥ २५२ ।। भक्तितः पूजयित्वा तु सर्वसंपत्तिमान् भवेत् । पूजयेत् कुलविद्यानामेकैकां कुलभैरवीम् ॥ २५३ ॥ एवं प्रणवयोगेन चैतन्यं तत्वमर्चयेत् । प्रणवस्य विशेषं हि जानीहि नगनन्दिनि ॥ २५४ ।। यज्ज्ञानात् साधकाः सर्वे भवन्ति मुक्तिभागिनः । योनिर्बिन्दुमती चैव मायाबीजं ततः परम् ॥ २५५ ॥ १ 'देवी' ख. पाठः । २ 'मनु' ख. पाठः । .