सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

2 सप्तमः पटलः । ११३ न च ॥ २३३ ॥ अन्नदामूर्तिमेतां हि कुरु वा सुरवन्दित । वटपत्रे महादेव्यै बलिं यत्नेन दापयेत् ॥ २३२ ॥ आसनं कम्बलं दद्यात् स्वागतं मधुनिर्मितम् । पाद्यं तु पयसा दद्यार्घ्यं दद्यात् कुशेनच मधुपर्क घृतेनैव जलेनाचमनीयकम् । तक्रेण स्नानमाचर्य वसनं लोहितं स्मृतम् ॥ २३४ ॥ रजताभरणं दद्यात् सर्वदेवमनोहरम् । तण्डुलेन विना देव्यै नैवेद्यं दापयेत् प्रिय ॥ २३५ ॥ चर्व्यं चोष्यं तथा लेह्यं पेयं दद्याद् मनोहरम् । रक्तचन्दनबीजैश्च जपेदष्टसहस्रकम् ॥ २३६ ॥ ॥ शुक्लप्रतिपदारभ्यमष्टम्यां च समापयेत् । बलिं दद्याद् महादेव्यै छागेन महिषेण वा ॥ २३७ ॥ अन्नं मत्स्यं तथा मांसं घृतं परमशोभनम् । पिष्टकं परमं द्रव्यं दद्याद् देव्यै मनोहरम् ॥ २३८ ॥ होमयेद् देवदेवेश यथाशक्ति विधानतः । श्रीभैरव उवाच । कुमारी पूजयेद् यत्नैर्द्रव्यैर्बहुविधैरपि ॥ २३६ ॥ होमादिकं तु सकलं कुमारीपूजनं विना । परिपूर्णफलं नैव सकलं पूजनं भवेत् ॥ २४० ॥ ततः सकलसिद्ध्यर्थ कुमारी तु प्रपूजयेत् । आनयेत् कन्यकां योग्यां कुमारीं तु सुवासिनीम् ॥ २४१ ॥ सुवासिनीं मदप्रौढां संशयं त्यज सुन्दरि । कथयामि न सन्देहः कुमारीपूजनं शुभम् ॥ २४२ ॥ यस्याः पूजनमात्रेण त्रैलोक्यपूजनं भवेत् । कुमारी च महेशानि त्रिधा मूर्तिर्व्यवस्थिता ॥ २४३ ॥