११२ बृहन्नीलतन्त्रम् ।
कुतर्कः शतशो देवि कृतस्तेन महीयसा । कुतर्केण महादेवि कुतर्कोऽयं महानपि ॥ २२० ॥ मोहितो दैत्यराजेन्द्रो येन दानवपुङ्गवः । कृत कर्मणि भूमिस्थैः स्वर्गे तृप्तिः कथं भवेत् ॥ २२१ ।। तारिणी च महाकाली भवानी च महेश्वरी । तासां पूजा वृथा देव किमर्थं क्रियतेऽशुभा ॥ २२२ ॥ एवं बहुविधेनैव कुतर्केण महानपि । मोहितो दैत्यराजोऽसौ धर्म त्यक्त्वा महेश्वरी?रि) ॥ २२३ ॥ अधर्मनिरताः सर्वे धर्म त्यक्त्वा महेश्वरि । कालक्रमेण तेषां तु आपदः परमाः शुभे ॥ २२४ ।। ततो बृहस्पतिर्देवो देवराजगृहं ययौ । इन्द्राय सर्वमाचख्यौ दैत्यानां कर्मबन्धनम् ॥ २२५ ॥ शृणु चैकाग्रमनसा येन ते कुशलं महत् । जायते नात्र संदेहो देवराज जगत्पते ॥ २२६ ॥ तारिणीं कालिकां चैवान्नपूर्णां भैरवीं पराम् । संपूज्य विधिवद्भक्त्या सर्वसिद्धिर्भविष्यति ॥ २२७ ॥ पूजाविधानं देवेश श्रोतुमर्हस्यसंशयम् । प्राङ्गने मध्यमे रात्रौ फाल्गुने मासि सुन्दर ।। २२८ ॥ चतुर्दिक्षु महेशान कदलीस्तम्भमुत्तमम् । आत्म(ने?नो)ऽग्रे च देवेश मण्डपं कारय प्रिय ॥ २२६ ॥ चूताश्वत्थवटैर्दे(वि व)च्छन्नं कुर्याच्च मण्डपम् । कुमारीवेष्टितं कुर्याद् मण्डपं सर्वमोहनम् ।। २३० ॥ तारामूर्तिं तथा कालीमूर्तिं वा देवराजक । सर्वकार्यप्रदां देव तां कुरुष्व महेश्वर ॥ २३१ ।।