सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

२ सप्तमः पटलः । १०४ एवं पञ्चाशदाग्नेय्यो विद्याः सौम्याः प्रकीर्तिताः । वामवाहो यदा वायुर्दीर्घाणां योजनं तदा ॥ १८५ ॥ दक्षिणस्यां यदा वायुस्तदा ह्रस्वो नियोजितः उभयस्थो यदा वायुस्तदा स्युरुभयात्मिकाः ॥ १८६ ॥ " प्रणवं मातृकादेवी हल्लेखेत्यमृतत्रयम् । अमृतत्रयसंयोगाद् दुष्टमन्त्रोऽपि सिद्ध्यति ॥ १८७ ॥ एवं शृणु वरारोहे सर्वसारं मनूत्तमम् । नियमः पुरुषैर्ज्ञेयो न योषित्सु कदाचन ॥ १८८ ।। यद्वा तद्वा येन तेन सर्वतः सर्वतोऽपि च । योषितां ध्यानमात्रेण सिद्धयः स्युर्न संशयः ॥ १८६ ।। यथाऽयस्कान्तमात्रेण गूढविद्धशिलंत्वयः । स्वयमेव बहिर्याति यथा वा सौरतेजसा ॥ १० ॥ सूर्यकान्तः स्फुटं भाति यथा चन्द्रस्य रश्मिभिः । चन्द्रकान्तो द्रावयति यथा वर्षासु वारिदैः ।। १६१ ॥ जलसेकातितृप्ता भू रसपूर्णा प्रचक्षते । क्षुधार्तः क्षीरपानेन यथा तृप्तोऽभिजायते ॥ १६२ ।। पुष्पदर्शनमात्रेण गन्धर्वश्च सुखी भवेत् । कुलपुष्पप्रदानेन यथा शक्तिः प्रतुष्यति ॥ १६३ ।। गुरुसेवैकमात्रेण मन्त्रसिद्धिर्भवेद् यथा । महापद्मवनं ध्यात्वा यथा सिद्धीश्वरो भवेत् ॥ १६४ ॥ त्रिपुराध्यानमात्रेण भुक्तिर्मुक्तिर्यथा भवेत् । महादुर्गाप्रसादेन यथा सिद्धीश्वरो भवेत् ॥ १६५ ॥ युवतीध्यानमात्रेण यथा कुलपतिर्भवेत् । गङ्गास्मरणमात्रेण निष्पापो जायते यथा ॥ १६६ ॥