सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११० बृहन्नीलतन्त्रम् । तथाकर्षणमात्रेण शिव एव प्रजायते । कामाख्या योनिपूजायां यथा तुष्यति भैरवि ॥ १७ ॥ योषिच्चिन्तनमात्रेण तथैव वरदायिनी । तस्मात् सर्वप्रयत्नेन दीक्षयेद्(द्वि?नि)जकौलिकीम् ॥ १६८ ॥ अदीक्षितकुलासङ्गात् सिद्धिहानिः प्रजायते । अनेनैव क्रमेणैव यः करोति क्रियां शुभाम् ॥ १६६ ॥ तस्य वंशे महेशानि बृहस्पतिसमः पुमान् । जायते नात्र सन्देहः सत्यं सत्यं सुरार्चिते ॥ २०० ।। एकदा नारदं प्राप्य गौरी सर्वसुखान्विता । पप्रच्छ मधुरां भाषां शङ्करान्वेषणे रता ॥ २०१ ॥ देवर्षिरब्रवीद् वाक्यं शृणु हे नगनन्दिनि । ताराप्रयोगमेतं हि येन सिद्धिर्भविष्यति ॥ २०२ ।। नारद उवाच । एकदेन्द्रः श्रिया भ्रष्टो विहाय चामरावतीम् । हिरण्याक्षपुरेऽगच्छत् सहितो देवसैन्यकैः ॥ २०३ ।। देवारिभिः समं तत्र विरोधः सुमहानभूत् । पराजितो देवराजो बृहस्पतिपुरोधसः ॥ २०४ ॥ आश्रमे च पुनर्गत्वा विमृश्य विविधं शिवे । उवाच सादरं वाक्यं गुरुं प्राप्य जगद्गुरुम् ।। २०५ ॥ (इन्द्र उवाच ।) विश्वेषां पावनस्त्वं हि जगत्यस्मिंश्चराचरे । ब्रजामि शरणं देव रक्ष मां भगवन् यतः ॥ २०६ ।। उपायं ब्रूहि देवेश इन्द्रत्वं जायते यतः । केन रूपेण देवेश मम त्राणं भविष्यति ॥ २०७ ॥