सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८ बृहन्नीलतन्त्रम् । झिल्लीशब्दा व्यक्ततरा कूजन्ती सततोत्थिता । गच्छन्ती ब्रह्मरन्ध्रेण प्रविशन्ती स्वकेतनम् ॥ १७४ ॥ यातायातक्रमेणैव तत्र कुर्यान्मनोलयम् । तेन मन्त्रे शिखा जाता सर्वमन्त्रप्रदीपिका ॥ १७५ ॥ तमःपूर्णे गृहे यद्वद् न किञ्चिदपि भासते । शिखाहीनास्तथा मन्त्रा न सिध्यन्ति कदाचन ॥ १७६ ॥ शिखोपदेशः सर्वत्र गोपितः परमेश्वरि । तेन विना न सिद्धिः स्याद् वर्षकोटिशतैरपि ॥ १७७ ॥ तस्मात् त्वायापि गिरिजे गोपनीयः प्रयत्नतः । सुप्ता निद्रायिता मत्ता विद्रावणरता परा ॥ १७८ ॥ समस्तदोषजालेन ग्रथिता' कुलसुन्दरि । +निशाचारं दिवाचारं सन्ध्याचारं च पल्लवम् ॥ १७६ ॥ दुर्लभं बीजसंयुक्तं भावसंयोगमेव च । ज्ञात्वा प्रबोधयेद्वीरो गुरुस्तत्रैव कारणम् ॥ १८० ॥ निशाचारे महशानि विशेष कथयामि ते । वामदक्षिणनासायामुदये देवि तत्त्वतः ॥ १८१ ।। स्वापकाले तु मन्त्राणां जपोऽनर्थफलप्रदः । स्वापकालो वामवाहो जागरो' दक्षिणावहः ॥ १८२ ॥ आग्नेयस्य मनोः सौम्यमन्त्रस्यैतद्विपर्ययः । प्रबोधकालं जानीयाद् मन्त्रयोरुभयोरपि ।। १८३ ।। कर्मणोर्वह्निताराद्याः वियत्प्रायाः समीरिताः । आग्नेय्योऽपि च सौम्याः स्युर्भूयिष्ठन्द्वमृताक्षराः ॥ १४ ॥ +स्वाप प्रहरे महानिशि चारो वामनाड्या वायोरुदयः। तथैव दक्षिण- नाड्या वायोरुदये दिवाचारः। संध्याचारस्तु उभयनाडीप्रवाहः । १ 'रहिता येन' ख. पाठः । २ 'संकेत भावसंकेतं' ख. पाठः । ३ 'प्रबोधो' ख. ४ 'उभयोर्मन्त्रयोरपि' ख. पाठः ।