सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः पटलः । १०७ अजस्रभावनाभ्यासात् साधकः सुकृती सुधीः । कविर्वाग्मी महायोगी मुक्तिभागी भवेन्नरः ॥ १६३ ॥ का अब्दाच्चतुर्विधं तस्य पाण्डित्यमुपजायते । अथ वक्ष्ये महेशानि रहस्यं परमाद्भुतम् ॥ १६४ ॥ युवतीनां तु योनौ तु लिखेद् मन्त्रान् मनोरमान् । संजप्य च महामन्त्रं सर्वसारस्वतप्रदम् ॥ १६५ ।। सहस्रजपमानेन प्रयोगं च समाचरेत् । पश्चाद् भ्रमणयोगेन ताडयेद् योनिमण्डलम् ॥ १६६ ॥ सहस्रं च जपेत् तावद्यावद् रेतो न जायते । तेन तत्त्वेन देवेशि तर्पयेद् यतमानसः ॥ १६७ ॥ कवित्वं जायते सुभ्रु वाग्मित्वं च तथैव च । पण्डि(त)त्वं महत्त्वं च जायते नात्र संशयः ॥ १६८ ॥ रक्तपुष्पैर्महेशानि योनिपूजनमाचरेत् । युवतीरूपमास्थाय पूजयेद् बहुयत्नतः ॥ १६६ ॥ घृणां त्यक्ता महेशानि पूजयेद् योनिमण्डलम् । रहस्यं शृणु चार्वङ्गि येन सिद्धो भवेद् मनुः ॥ १७० ॥ (श्रीदेव्युवाच ।) भगवन् भूतभव्येश भूताधिप महाबल । प्रसीद देवदेवेश सर्वप्राणिहिते रत ॥ १७१ ।। येनावश्यं भवेत् सिद्धिस्तदुपायं वद प्रभो । श्रीभैरव उवाच । शृणु देवि परं ज्ञानं सर्वज्ञानोत्तमोत्तमम् । येन विज्ञानमात्रेण शीघ्रं विद्या प्रसीदति ॥ १७२ ।। मूलकन्दे च या शक्तिर्जगदाधाररूपिणी । तभ्रमावर्तवातो यः प्राण इत्युच्यते बुधैः ॥ १७३ ॥ MA