सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०६ बृहन्नीलतन्त्रम् । रक्तचन्दनदिग्धाङ्गीं रक्तवस्त्रैरलङ्कृताम् । चारुपुष्पैर्मनुं प्रोच्य ततो ध्यायेच्च सुन्दरीम् ॥ १५१ ।। रमित्रा तां लभेद्राज्यं यदि नात्र पलायते । मेषमाहिषरक्तेन वाग्मिलं तस्य जायते ॥ १५२ ।। धनिलं जायते तस्य सर्वसिद्धिः प्रजायते । वचसा च भवेज्जीवो धनेन च धनाधिपः ॥ १५३ ॥ आज्ञया देवराजोऽसौ रूपेणैव मनोभवः । वलेन पवनो ह्येष सर्वतत्वार्थसाधकः ॥ १५४ ॥ शोधितं साधितं दद्यात् सास्थि मांसं सदा बलिम् । सर्व सास्थि प्रदातव्यं तथा लोमसमन्वितम् ॥ १५५ ।। एवंभूतः सदा देवि साधको भुवि दुर्लभः । यया कयाचित् दृष्ट्या वा यज्जपो भुवि दृश्यते ॥ १५६ ॥ एतत्प्रकाशनात् देवि मृत्युर्भवति नान्यथा । एतत्साधकनिन्दां वा एतन्मन्त्रस्य वा पुनः ॥ १५७ ।। महाभृतगणैः सार्धं तस्य सर्व हराम्यहम् । योगिनीचक्रसहिता स्वयं तद्वधकारिणी ॥ १५८ ॥ रहस्यं शृणु देवेशि येन वाग्मी भवेत् सदा । यस्मात् परतरं नास्ति तत्रमध्ये सुरेश्वरि ॥ १५६ ॥ सारस्वतप्रयोगोऽयं कथितो विश्वमोहने । विशेषं कथयिष्यामि सावधानावधारय ।। १६० ।। वीरतचे कथितं ते येन सर्वमयो भवेत् । जिह्वायां भावयेद् यस्तु तारिणीं दीपरूपिणीम् ॥ १६१ ॥ मातृकासहितां विद्यां त्रिरावर्त्य जलं पिवेत् । जलपान विधानेन मूकोऽपि सुकविर्भवेत् ॥ १६२ ॥