सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः पटलः । १०५ तत्र गच्छति कामार्ता यत्र यत्रोपलभ्यते । महाचीनद्रुमरसेनाक्तं पिण्डं विधाय च ।। १३६ ।। यन्नाम्ना दीयते देवि सोऽचिराद् मुक्निमाप्नुयात् । महाचीनद्रुममूल-मज्जाभिर्बिल्वपत्रकैः ॥ १४० ॥ सहस्रं देवीमभ्यर्च्य श्मशाने साधकोत्तमः । तदा राज्यमवाप्नोति यदि सा न पलायते ॥ १४१ ॥ तस्यापि षोडशांशेन कलां नार्हन्ति ते शवाः । शवासनाधिकफलं लतागेहप्रवेशनम् ।। १४२ ।। धनकामस्तु यो विद्वान् महदैश्वर्यकामुकः । बृहस्पतिसमो यस्तु भवितुं कामयेद् नरः ॥ १४३ ॥ अष्टोत्तरशतं जप्त्वा कुलमामन्त्र्य मन्त्रवित् । मैथुनं यः प्रयात्येवं स तु सर्वफलं लभेत् ॥ १४४ ॥ लतारतेषु जप्तव्यं महापातकमुक्तये । लता यदि न संसर्गे तदा रेतः प्रयत्नतः ॥ १४५ ॥ समुत्सार्य जपेद् मन्त्रं धर्मकामार्थसिद्धये । सुरतेषु प्रजप्तव्यं महापातकमुक्तये ॥ १४६ ॥ वरासनस्थां संवीक्ष्य तन्मूले स्वेष्टदेवताम् । पूजयिखा महारात्रौं त्रिदिनं पूजयेद् मनुम् ॥ १४७ ।। लक्षपीठफलं देवि लभते नात्र संशयः । वेतालपादुकासिद्धिः खड्गसिद्धिश्च जायते ।। १४८ ॥ अञ्जनं तिलकं गुप्तं प्रजप्य तु सहस्रकम् । स्वदेहरुधिराक्तैश्च बिल्वपत्रेः सहस्रकैः ॥ १४६ ।। श्मशानेऽभ्यर्च्य देवीं तु वागीशसमतां व्रजेत् । श्मशाने योषितं मन्त्री संपूज्य ऋतुगां शुभाम् ॥ १५० ।।