सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०४ बृहन्नीलतन्त्रम् । तदैव मन्त्रसिद्धिः स्यान्नात्र कार्या विचारणा । दिनैः षोडशभिर्देवि सिद्धिमाप्नोति साधकः ॥ १२७ ॥ पर्वते हस्तमारोप्य निर्भयो यतमानसः । कवितां लभते सोऽपि अमृतत्वं च गच्छति ॥ १२८ ।। नीलपद्मं तथा बिम्बं खञ्जनं शिखरं तथा । चामरं रविबिम्बं च तिलपुष्पं सरोवरम् ॥ १२६ ।। त्रिसूत्रं वीक्ष्य जप्त्वा तु सततं शुद्धभावतः । सुखप्रसादं सुमुखं सुलोचनं सुहास्यदम् ॥ १३० ॥ सुकेशं सुगतिं कन्दं सुगन्धं सुखमेव च । लभते च यथासंख्यं शृणु पार्वति सादरम् ॥ १३१ ।। महाचीनद्रुमे देवीं ध्यात्वा तत्र प्रपूज्य च । तद्रुमोद्भवपुष्पेण पूजयेद् भक्तिभावतः ॥ १३२ ॥ स भवेत् कुलदेवश्च कुलक्रमगतः शुचिः । ब्रह्मतरोमहामूले देवीं ध्यात्वा यथाविधि ॥ १३३ ॥ तत्सुधासारसारण तर्पयेद् मातृकानने । स भवेत् साधकश्रेष्ठो मातॄणां च भवेत् प्रियः ॥ १३४ ।। महाचीनद्रुमलतावोष्टितः साधकोत्तमः । रात्रौ यदि जपेद् मन्त्रं सच कल्पद्रुमो भवेत् ॥ १३५ ।। तिथिक्रमेण देवेशि लतया वेष्टितो भवेत् । तदा मासेन सिद्धिः स्यात् सहस्रजपमानतः ॥ १३६ ॥ अष्टम्यां च चतुर्दश्यां द्विगुणं यदि जप्यते । तदैव महती सिद्धिर्देवानामपि दुर्लभा ॥ १३७ ॥ महाचीनद्रुमे बीजं लिखित्वा कुङ्कुमेन च । तत्पार्श्वे साध्यमालिख्य ताडयद् दृष्टिवृष्टिभिः ॥ १३८ ।। १ 'सरोरुहम्' ख. पाठः । २ 'त्रिशूलं' ख. पाठः । ३ 'लता' ख. पाठः ।