सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

व सप्तमः पटलः । १०३ न जपे कालनियमो नार्चादिषु बलिष्वपि । स्वेच्छानियम उक्तोत्र महामन्त्रस्य साधने ॥ ११५ ।। नाधर्मो विद्यते सुभ्रु किश्चिद् धर्मो महान् भवेत् । स्वेच्छाचारस्थितो देवि प्रचरेद् हृष्टमानसः ।। ११६ ॥ (कृतार्थ कार्तार्थ्य)मन्यमानस्तु संतुष्टो जितमानसः । जपं कृत्वा विशेषेण स्त्रिया च जपमाचरेत् ॥ ११७ ।। आसनं शृणु देवेशि प्राक् सिद्ध्येजपमुत्तमम् । पीठानामुत्तमं पीठं जपात् सार्वज्ञ्यदायकम् ॥ ११८ ॥ योनिपीठे निवेश्यैव श्रोण्यां कमललाचने । योन्यां संक्षिप्तलिङ्गस्तु जपेत् तद्तमानसः ॥ ११६ ।। सहस्रं प्रत्यहं जप्त्वा कन्दर्पसदृशः पुमान् । जायते नात्र संदेहः सत्यं सुरगणार्चिते ।। १२० ॥ चीनाचारविशेषं हि कथितं परमेश्वरि । ताराकल्पे महेशानि विस्तरेण प्रकाशितम् ॥ १२१ ।। अत्र चैव महेशानि विशेषः कथितो मया । योनिकुन्तलमादाय गृह्णीयादन्तरीयकम् ।। १२२ ॥ एवं वत्सरपर्यन्तं जपेत् तद्गतमानसः । नीलासरस्वती काली चान्नपूर्णा च भैरवी ॥ १२३ ।। साधकाय प्रहृष्टाय प्रसीदति न संशयः । साधकोऽपि महादेवि वत्सरात् तां प्रपश्यति ॥ १२४ ।। इह ते संशयो नास्ति सत्यं सत्यं महेश्वरि । अतिस्नेहात् सुरश्रेष्ठे प्रकाशितमिदं तव ।। १२५ ॥ रहस्यं शृणु चार्वङ्गि येन सिद्ध्यति सुन्दरि । रजस्वलां स्त्रियं वीक्ष्य सहस्रं प्रजपेद्यदि ॥ १२६ ।।