सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०२ बृहन्नीलतन्त्रम् । [श्रीभैरव उवाच ।] न वक्तव्यमभक्ताय परभक्ताय पापिने । महाचीनक्रमं देवि विविधं कथितं शिवे ॥ १०३ ॥ स्नानादि मानसं शौचं मानसः प्रवरो जपः । पूजनं मानसं दिव्यं मानसं कल्पनादिकम् ॥ १०४ ॥ सर्व एव शुभः कालो नाशुभो वर्तते क्वचित् । न विशेषो दिवा रात्रौ न सन्ध्यायां महानिशि ॥ १०५ ॥ वस्त्रासनस्थानगे[हे?ह ]देहस्पर्शादि वारिणः । शुद्धिं नचाचरेदत्र निर्विकल्पं मनश्चरेत् ॥ १०६ ॥ नात्र शुद्ध्याद्यपेक्षास्ति न चामेध्यादिदूषणम् । य एवं चिन्तयेद् मन्त्री सर्वकामफलप्रदम् ॥ १०७ ।। गद्यपद्यमयी वाणी सभायां तस्य जायते । तस्य दर्शनमात्रेण वादिनो निष्प्रभा मताः ॥ १०८ ॥ राजानोऽपि च दासत्वं भजन्ते किं परे जनाः । सर्वदा पूजयेद् देवीमस्नातः कृतभोजनः ॥ १०६ ।। महानिश्यशुचौ देशं बलिं मन्त्रेण दापयेत् । स्त्रीनिन्दां च न कुर्वीत तासां प्रेम विवर्द्धयेत् ॥ ११०॥ अत्युत्कटापराधेऽपि न तस्या द्वेषमाचरेत् । स्त्रीद्वेषो नैव कर्तव्यो विशेषात् पूजयेत् स्त्रियः ॥ १११ ॥ जपस्थाने महाशङ्खं निवेश्योर्ध्वं जपं चरेत । स्त्रियं गच्छन् स्पृशन् पश्यन् यत्र कुत्रापि देशिकः ॥११२ ।। भक्षस्ताम्बूलमन्यांश्च भ[क्ष क्ष्य) द्रव्यं यथारुचि । मांसमत्स्यदधिक्षौद्रभ[१?क्ष्य द्रव्यं यथारुचि ॥ ११३ ॥ भुक्तान्नशेषभ[क्षा क्ष्या ]णि भुक्ता सर्व जपं चरेत् । दिक्कालनियमो नास्ति स्थित्यादिनियमो न च ॥ ११४ ।।