सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०० बृहन्नीलतन्त्रम् । श्रीदेव्युवाच । देवदेव महादेव स्थितिसंहारकारक । प्रश्नमेकं करोम्यत्र सकाशात् तव सुव्रत ॥ ८१ ॥ कैतवं च परित्यज्य तत् कथ्यं भवनाशन । महाचीनक्रमं देव कथितं न प्रकाशितम् । कथयस्व तदिदानीं यदि स्नेहोस्ति मां प्रति ॥ ८२ ॥ श्रीभैरव उवाच । महाचीनक्रमं देवि सर्वतन्त्रेषु गोपितम् । यत् कृत्वा साधकाः सर्वे शिवत्वं यान्ति तत्क्षणात् ॥ ८३ ॥ न वक्तव्यं महेशानि भुवनत्रितये शिवे । शुद्धभावेन देवेशि वक्तव्यं तव गोचरे ॥ ८४ ॥ नान्योऽस्ति मे प्रियः कोऽपि त्वदन्यः सुरवन्दिते । इदानीं परमेशानि निधारय मनः शिवे ॥ ८५ ॥ महाचीनक्रमं देवि कथितव्यं वरानने । अहं देहो महेशानि देही त्वं सर्वरूपदृक् ॥ ८६ ॥ मीनो यथा महादेवि पयसि प्रहृतो यथा । सदात्मा वं महेशानि अकथ्यं नास्ति सुन्दरि ॥ ८७ ।। केचिद् देवा नरा केचिद् दानवा यक्षराक्षसाः । नागलोकाः किन्नराश्च गन्धर्वाप्सरसां गणाः ॥ ८८ ॥ ये वा पशुमृगाः पक्षा ये केचिज्जगतीगताः । एते जडतराः सर्वे परस्परखलात्मकाः ॥ ८६ ॥ कुकर्मनिरताः सर्वे कुमार्गदर्शनोत्सुकाः । एतेषां ब्रह्म विज्ञानमानन्दं ब्रह्म चित्सुखम् ।। ६० ।। न जानाति महेशानि तत् कथं कथयामि ते । नित्यमुक्तस्वभावोऽयं तदर्थमिदमीरितम् ॥ ११ ॥ १ 'कोऽपि' ख. पाठः ।