सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः पटलः । शक्ररूपधरे देवि शक्रादिसुरपूजिते । कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे ॥ ६६ ॥ चामुण्डे मुण्डमालासृक्चर्चिते विघ्ननाशिनि । कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे ॥ ७० ॥ महालक्ष्मि महोत्साहे शोकसंतापहारिणि । कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे ॥ ७१ ॥ मितिमातृमये देवि मितिमातृबहिष्कृते । एके बहुतरे' देवि विश्वरूपे नमोऽस्तु ते ॥ ७२ ॥ इदं स्तोत्रं पठेद् यस्तु कर्मारम्भे महेश्वरि । विदग्धां वा समालोक्य तस्य विघ्नो न जायते ॥ ७३ ॥ कुलीनस्य द्वारदेवाः कथितास्तव सुन्दरि । दीक्षाकाले नित्यपूजासमये नार्चयेद् यदि ॥ ७४ ॥ तस्य पूजाफलं देवि नीयते यक्षराक्षसैः । शतवर्षजपाद् देवि न सिद्धिर्जायते प्रिये ॥ ७५ ॥ महापदि समुत्पाते पठेत् स्तोत्रं गणेश्वरि । आपदश्च पलायन्ते संशयो नास्ति कश्चन ॥ ७६ ॥ विद्याकामेन देवेशि शतकृत्वः पठेत् स्तवम् । इति ते कथितं मातुः स्तोत्रं कण्ठविभूषणम् ॥ ७७ ॥ मद्भक्तेभ्यो महेशानि प्रकाशमुपपादय । अप्रकाश्यमिदं स्तोत्रं न देयं यस्य कस्यचित् ॥ ७८ ।। दातव्यं हि सदा तस्मै भक्तिश्रद्धान्वितोऽपि यः । सत्कुलीनाय शान्ताय ऋजवे दम्भवर्जिने ॥ ७६ ।। दद्यात् स्तोत्रं महेशानि नान्यथा फलभाग्भवेत् । अष्टादशपुराणेषु वेदव्यासेन कीर्तितम् ॥ ८० ।। १ 'विधे' ख. पाठः । R