सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

९८ । बृहन्नीलतन्त्रम् । मांसं मत्स्यं पिष्टकं च दद्यादतिप्रियं महत् । कविर्वाग्मी भवेत् पुत्रः सर्वकर्मप्रकारकः ॥ ५८ ॥ जितेन्द्रियः सत्यवादी धार्मिको जायते महान् । पिता चैव पितुर्धाता मातुर्धाता पुनस्तथा ॥ ५६ ।। लिखेद् मत्रं महेशानि नान्यः सुरगणार्चिते । भ्राता वापि लिखेद् मन्त्रं सर्वकामफलप्रदम् ॥ ६० ।। मातुः क्रोडे समादाय वस्त्रेणास्तीर्य यन्ततः । शान्ति कुर्याद् बालकस्य ब्राह्मणैः सह संयुतः ॥ ६१ ॥ इमं पुत्रं कामयत कामजानामिहैव तु । देवेभ्यश्च महेशानि पुष्णाति पदमन्तरम् ॥ ६२ ॥ "शिवशान्तिस्तारायै केसरेभ्यस्तारायै शिवाय शिवयशसे" मन्त्रस्य लेखनान्ते तु शान्तिं कुर्याद् महेश्वरि । इत्येतद् मत्स्यसूक्ते च कथितं विस्तरेण तु ॥ ६३ ।। तन्मातुर्वामकर्णे तु शान्तिस्तोत्रं पठेन्मुदा । मातर्देवि नमस्तेऽस्तु ब्रह्मरूपधरेऽनघे ।। कृपया हर विघ्नं मे सर्वसिद्धिं प्रयच्छ मे ॥ ६४ ।। माहेशि वरदे देवि परमानन्दरूपिणि । कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे ॥ ६५ ॥ कौमारि सर्वविद्येशे कौमारक्रीडने परे । कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे ॥ ६६ ॥ विष्णुरूपधरे देवि विनतासुतवाहिनि । कृपया हर विघ्नं मे मन्त्रसिद्धिं प्रयच्छ मे ॥ ६७ ॥ वाराहि वरदे देवि दंष्ट्रोद्धृतवसुन्धरे । कृपया हर मे विघ्नं सर्वसिद्धिं प्रयच्छ मे ॥ ६८ ॥ १ . साधकैः' ख. पाठः । २ मन्त्र' ख. पाठः।