सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः पटलः । ६७ जिह्वां संमार्ज्य॑ देवेशि लिखेद् हेमशलाकया । दुर्वया वा महादेवि जिह्वोष्ठयोः समालिखेत् ॥ ४६ ॥ पक्तिद्वयेन संलिख्य कुर्याच्च बालसंस्क्रियाम् । एकादशाहे देवेशि द्वादशाहेऽथ वा पुनः ॥ ४७ ।। वर्णजात्यादिभेदेन मासान्तं संभविष्यति । यथाशक्त्युपचारेण देवतां पूजयेत् पुरः ॥ ४८ ॥ संपूज्य देवतां भक्त्या लिखेन्मन्त्रं महेश्वरि । यदा पिता न देशस्थः पितृव्यो मातुलोऽपि वा ॥ ४६ ।। लिखित्वा परमेशानि कुर्याच्च बालसंस्क्रियाम् । मूलमन्त्रं लिखेद् मन्त्री यस्योष्ठे श्वेतदूर्वया ॥ ५० ॥ वाक्योच्चाररतो बालो वाग्मी द्रुतकविर्भवेत् । जन्मसंस्कारकं नाम पुत्रे जाते प्रशस्यते ॥ ५१ ॥ जिह्वायां तु लिखेद् मन्त्रं यज्ञदारु-कुशेन वा । वारत्रयं सुसमार्ज्य॑ दक्षिणेनैव पाणिना ॥ ५२ ।। मन्त्रमुच्चार्य प्रत्येकं पक्तिं कुर्यात् सुशोभनाम् । आदौ संस्कारः कर्तव्यस्तदन्ते च लिखेन्मनुम् ॥ ५३ ।। गन्धचन्दनपुष्पैश्च पूजयेत् तारिणी शिवाम् । उत्तराभिमुखो भूत्वा स्थापयेत् पीठमुत्तमम् ॥ ५४ ॥ पूजयेत् तारिणीं देवीं नानाभक्ष्यैः सुशोभनैः । षोडशेरुपचारैश्च पूजयेद् भक्तिभावतः ॥ ५५ ।। धूपं दद्याद् गुग्गुलुना सर्वकर्मफलप्रदम् । नारिकेलं तथा रम्भां बदरं बकुलं तथा ॥ ५६ ॥ बीजपूरं कर्णिकारं शर्करां गन्धसंयुताम् । मधूदकं कलायं च सिद्धान्नं पायसप्लुतम् ॥ ५७ ॥