सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । s खड्गेति परमेशानि चामुण्डे च ततः परम् । जयशब्दं समुच्चार्य वशमानय ठद्वयम् ॥ ३४ ॥ अनेन मन्त्रराजेन कुर्यात् पौष्टिकमुत्तमम् । भक्षं भोज्यं महादेव्यै दद्यात् सुरगणार्चिते ॥ ३५ ॥ रक्तासने चोपविश्य सहस्राष्टौ जपेन्मुदा । दशांशादिप्रमाणेन होमादींश्च समाचरेत् ।। ३६ ॥ जापे समाप्ते देवेशि दद्याद् रजतदक्षिणाम् । पलं वापि तदर्धं वा तदर्धं वापि शक्तितः ॥ ३७ ॥ प्रवालमालया देवि जपं कुर्याच्छुचिस्मिते । उष्णीषं लोहितं प्रोक्तमुत्तरीयं तथा प्रिये ॥ ३८ ॥ रक्तवस्त्रं परीधाय जपेत् तद्गतमानसः । कवित्वं जायते सुभ्रु ! मन्त्रस्यास्य प्रसादतः ।। ३६ ॥ कविता वशमायाति नात्र कार्या विचारणा । इदानीं शृणु चार्वङ्गि कविताकारकं परम् ॥ ४० ॥ प्रयोगं सर्वसंगोप्यं तव स्नेहात् प्रकाश्यते । नटी चण्डा(लीनं?लिनी)चैव योगिनं सर्वमोहनम् ॥ ४१ ॥ बीजत्रयं जपेद्रात्रौ मध्यरात्रौ रवेर्दिने । अष्टाधिकसहस्रेण प्रमाणेन जपं चरेत् ॥ ४२ ॥ शताभिमन्त्रितं कृत्वा पिबेच्च जलमुत्तमम् । सप्तदिनप्रयोगेण कविता चित्तमोदिनी ॥ ४३ ।। जायते नात्र सन्देहः सत्यं सुरगणार्चिते । पाणिना दक्षिणेनैव मधुलाजान् समानयेत् ।। ४४ ।। प्रागेव नाडीच्छेदाद् बालं संस्कुर्याच साधकः । कवित्वं जायते तेनाद्वितीयं सुरवन्दिते ॥ ४५ ॥