सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

सप्तमः पटलः । ६५ वाग्भवं कुलदेवी च तारकं वाग्भवं तथा । msin हल्लेखास्त्रमनुश्चैव वह्निजायावधिर्मनुः ॥ २३ ॥ अष्टाक्षरो मनुः प्रोक्तो मन्त्राणां सार ईरितः । कालिकामन्त्रतत्रोक्तान् प्रयोगानेव चाचरेत् ॥ २४ ॥ कालिकातन्त्रमन्त्रोक्तान् प्रयोगानिह चाचरेत् । यथा काली तथा नीला भेदो नास्ति महेश्वरि ॥ २५ ॥ अविशेषेण कर्तव्यं सत्यं च कथितं मया । अन्यच्छृणु वरारोहे वशीकरणमुत्तमम् ॥ २६ ॥ यत्कृते साधको वीरो धन्यो भवति निश्चितम् । पुष्यार्के च महादेवि वीरमूलं समानयेत् ॥ २७ ।। शोधितं पञ्चगव्येन शोषयेद् भास्करद्युतौ । चूर्णयेद् मेषशृङ्गेण समादाय च तं शिवे ॥ २८ ॥ यत्रं संलिख्य देवेशि मातृकाख्यं सुशोभनम् । मन्त्रं शृणु वरारोहे ध्यानात् सार्वज्यदायकम् ॥ २६ ॥ व्योमेन्दौरसनार्णकर्णिकमचां द्वन्द्वैः स्फुरत्केसरं वर्गोल्लासिवसुच्छदं वसुमतीगेहेन संवेष्टितम् । प्राशास्वस्रिषु लान्तटान्तसहितं क्षोणीपुरेणावृतं यन्त्रं नीलतनोः परं निगदितं सर्वार्थसिद्धिप्रदम् ।। ३० ।। तेन चूर्णेन देवेशि यत्रं संलिख्य यत्नतः । मृत्पात्रे च समालिख्य स्थापयेत् कुम्भकोपरि ॥ ३१ ॥ तिलपूर्ण घटं तेन स्थापयेत् सुरवन्दिते । पट्टवस्त्रेण चामुण्डां पूजयेच्छार्करोदकैः ॥ ३२ ॥ तन्मन्त्रं परमेशानि जप्त्वा वशयेज्जगत्त्रयम् । कपर्दिनं समुद्धृत्य कलहं तद्वितीयकम् ॥ ३३ ॥ २