सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । फट्-मन्त्रं मन्त्रमुच्चार्य साध्यसंज्ञान्वितं पुनः । देशाद् देशान्तरं याति रिपुः काक इवापरः ॥ ११ ॥ वह्निपुटे रिपोर्मन्त्रं लिखित्वा पत्रकेण तु । श्मशाने मन्त्रमुच्चार्य पुटीकृत्य विदर्भ्य च ॥ १२ ॥ सहस्रजन्मभिर्जप्त्वा विद्या न हि फलप्रदा । सिद्धयश्च विनश्यन्ति देवानामपि दुर्लभाः ॥ १३ ॥ मातृचक्रेऽमृतं लेख्यं भिन्नाञ्जनपुटीकृतम् । जले निःक्षिप्य मत्न्रं तु पुनर्नव इतीरितः ॥ १४ ॥ जन्मलुप्तो मनुः स्निग्धो नवोदितशशी यथा । क्षणे क्षणेऽपि तेजस्वी रिपुदृष्टिगतोऽपि च ॥ १५ ॥ अथ वक्ष्ये मन्त्रमेकं धारयेत् सर्वदा प्रिये । योनियुग्मे लिखेन्मन्त्रं मूलं हेमशलाकया ॥ १६ ॥ क्लीबहीनान् दीर्घभिन्नान् 'षट्कोणे च लिखेत्ततः । अष्टपत्रेष्वष्टवर्णास्तद्भहिर्भूपुरद्वयम् ॥ १७ ॥ अष्टवज्र भूपुरे च विलिखेत् साधकोत्तमः । स्वर्णपत्रेऽथवा भूर्जे रौप्ये वाप्यथ सुव्रते ॥ १८ ॥ विलिखद् हेमलेखन्या गन्धाष्टकसमन्वितम् । दुर्वाकाण्डेन संलिख्य कुशमूलेन वा पुनः ॥ १६ ॥ वेष्टितं पीतवस्त्रेण यत्नेन परिवेष्टयेत् । बध्नीयात् पीतवस्त्रेण शिशूनां कएठभूषणम् ॥ २० ॥ स्त्रीणां वामभुजे चैत्रमन्येषां दक्षिणे भुजे । वन्ध्या तु लभते पुत्रं निर्धनो धनवान् भवेत् ॥ २१ ॥ इयं रक्षा पुरा बद्धा ज्ञानार्थं गौतमादिभिः । कीर्त्यर्थं पार्थिवैश्वान्यैः संग्रामे जयकाङ्क्षिभिः ॥ २२ ॥ १ 'घटकोणे' इति पाठान्तर ।