सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/११८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१ अथ सप्तमः पटलः । श्रीभैरव उवाच । अथ वक्ष्ये महेशानि निग्रहोपायमुत्तमम् । अवश्यमेव कर्तव्यं प्रयोगसाधनं तथा ॥१॥ मङ्गले शनिवारे च श्मशानाङ्गारमानयेत् । कृष्णवस्त्रेण संवेष्ट्य बध्नीयाद्रक्ततन्तुना ।। २ ॥ शताभिमन्त्रितं कृत्वा निःक्षिपेद् वैरिवेश्मनि । सप्ताहाभ्यन्तरे तेषामुच्चाटनमिदं भवेत् ॥ ३ ॥ नरास्थ्रि विलिखेन्मन्त्रं क्षारयुक्तहरिद्रया । सहस्रं परिजप्याथ निशायां शनिवासरे ॥ ४ ॥ निक्षिप्यते यस्य गेहे तस्य मृत्युस्त्रिमासतः । क्षेत्रे तु शस्यहानिः स्याज्जवहानिस्तुरङ्गमे ॥ ५ ॥ धनहानिर्धनागारे ग्राममध्ये तु तत्क्षयम् । ( द्विद्वे)षे तु विलिखेद् मन्त्रं प्रेतकर्पटके सुधीः ॥ ६ ॥ द्वेष्यद्वेषकयोर्नाम्ना तस्य द्वेषो महान् भवेत् । मत्न्रं शृणु वरारोहे प्रयोगार्हो भवेद् यतः ॥ ७ ॥ अमुकं मारयेत्यादौ मारयेति पदं ततः । सहस्रं परिसंजप्य मन्त्रमेनं महेश्वरि ॥ ८ ॥ द्वेषमन्त्रविशेषं तु शृणु चैकमनाः प्रिये । अमुकामुकयोर्द्धेषं कुरु कुर्वित्यनन्तरम् ॥ ६ ॥ मन्त्रमुच्चार्य देवेशि जपेद् देवि सहस्रकम् । उच्चाटय-पदद्वन्द्वं पिङ्गाक्षि तदनन्तरम् ॥ १० ॥