सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । इत्यने(न'नैव)मन्त्रेण शक्तिं संपूजयेन्नरः । इति खड्गं प्रपूज्यैव विशेषेण प्रपूजयेत् ॥ ३८६ ॥ ऑं खगाय खरनाशाय शक्तिकार्यार्थतत्पर । पशुच्छेदस्वया कार्यः : खगनाथ नमोऽस्तु ते ॥ ३६० ॥ अनेनैव तु मन्त्रेण प्रणमेत् खड्गमुत्तमम् । गृहीत्वा ताम्रपात्रं च जलपूर्णमुदङ्मुखः ।। ३६१ ।। हर्षकामो महादेव्यै पशोश्च प्रोक्षणं चरेत् । प्रोक्षणं च पशोः कृत्वा चोत्सृजेद् देवताधिया ॥ ३६२ ।। यथोक्लेन विधानेन तुभ्यमस्तु निवेदनम् । छिन्ने च पतिते वृद्धिर्वामभागे च निन्दितम् ॥ ३६३ ।। दैन्यं मध्ये च पतितं देवे छेदं स्मरेद् बुधः । ततः कुण्डान्तिके गत्वा आहुतिर्दशपञ्चभिः ॥ ३६४ ॥ तेनैवमुत्सृजन् दोषं बलिं लक्षेत् सलक्षणम् । ततो रुधिरमाधाय वटुकादीन् समर्चयेत् ॥ ३६५ ॥ नैर्ऋत्यां च महेशानि हूँ वाँ बटुकभैरवम् । वायव्ये हूं यां योगिनीभ्यो नमः इत्यादिनाचयेत् ।।३६६॥ ऐशान्यां च महेशानि हूं क्षौँ क्षेत्रपालाय नमः । इत्यादिना देवि(सम्यक्)गन्धपुष्पैः समर्चयेत् ॥ ३६७ ।। आग्नेय्यां हूँ गां गणेशाय नम इत्यादिनार्चयेत् । गन्धपुष्पैः समभ्यर्च्य बलिदानं समाचरेत् । इति ते कथितो देवि बलिदानस्य निर्णयः ॥ ३६८ ।। इति श्रीबृहन्नीलतन्त्रे भैरवभैरवीसंवादे (कुलपूजा-शाक्ताचारा दिविधिनिरूपणं) षष्ठः पटलः ॥ ६ ॥