सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

3 षष्ठः पटलः । ६१ मन्त्रं शृणु वरारोहे येन सिद्ध्यति निश्चितम् । ऑं पद्मे पद्मे महापद्मे पद्मावति माये तथा ॥ ३७६ ॥ स्वाहान्तोऽयं महामन्त्री नैमित्तिकफलप्रदः । एवं यः कुरुते कर्म सद्यो द्रुतकविर्भवेत् ॥ ३८० ॥ उपचारविशेषेण राजपत्नीं वशं नयेत् । रम्भाजातीबीजपूरं सुगन्धिपरिमिश्रितम् ॥ ३८१ ॥ मिश्रीकृत्य बलिं दद्यादष्टम्यां च विशेषतः । प्रयोगबलिमन्त्रोऽयं प्रयोगान् साधयेद् यदि ॥ ३८२ ।। अर्धरात्रे ततो नित्यं बलिं दद्यात् चतुष्पथे । परसैन्यग्रहारिष्ट-रोगकृत्यानिवारणम् ।। ३८३ । प्रणवं पूर्वमुच्चार्य उग्रतारे ततः परम् । विकटदंष्ट्रे परपक्षं मोहय-द्वन्द्वमुच्चरेत् ॥ ३८४ ॥ खादय-द्वन्द्वमुच्चार्य पचद्वन्द्वं वदेत् पुनः । "ये मां हिंसितुमुद्यता योगिनीचक्रैस्तान् हारय हूं फट् स्वाहा । परविद्यामाकर्षय२ छेदय२ हन२ कपाले गृह्ण२ स्वाहा । अनेनैव च देवेशि बलिं दद्याद्महेश्वरि । मायावीजं समुच्चार्य कालि कालीति सुन्दरि ॥ ३८५ ॥ वज्रेश्वरी-पदं पश्चाल्लोहदण्डायै नमः-पदम् । इति संपूज्य देवेशि शक्तिं संपूजयेत् ततः ॥ ३८६ ॥ हूँ वागीश्वरीब्रह्मभ्यां नमः । हूँ लक्ष्मीनारायणाभ्यां च । ततो नमः-पदं ब्रूयाद् देवि चण्डे महेश्वरि ॥ ३८७ ॥ ततोमामहेश्वराभ्यां नम इत्यादिनार्चयेत् । प्रणवं च ततः पश्चात् कार्तिकेश्वराभ्यां नमः ॥ ३८८ ॥ १ 'क्षोभय' ख. पाठः । 97