सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

बृहन्नीलतन्त्रम् । मन्त्रसिद्ध्यै महेशानि महापातकनाशनम् । कर्पूरमिश्रितैस्तोयैर्मासमानं प्रतर्पयेत् ॥ ३६७ ॥ वशीकृत्य नृपान् सर्वान् भोगी स्याद् यावदायुषम् । घृतैः पूर्णयशः सिध्येद् दुग्धैरारोग्यमाप्नुयात् ॥ ३६८ ॥ .73 अगुरुमिश्रितं देवि सर्वकालं सुखी भवेत् । नारिकेलोदकमिश्रेस्तोयैः सर्वार्थमाप्नुयात् ॥ ३६६ ।। मरीचमिश्रितैस्तोयैः सर्वाञ्छत्रून् विनाशयेत् । केवलैरुष्णतोयैश्च शत्रुमुच्चाटयेत् क्षणात् ॥ ३७० ।। ज्वराविष्टो भवेत् तेन दुग्धसेकात् शमं भवेत् । हविष्याशी मुक्तकेशो जपेदयुतमाचरेत् ।। ३७१ ॥ गद्यपद्यमयी वाणी सभायां तस्य जायते । उच्चाटयति पिङ्गाक्षी संभावयति केकरा ॥ ३७२ ।। विद्रावयति मुक्तास्या संभ्रामयति घूर्णिता । विक्षोभयति संक्षुब्धा संतापयति सन्निभा ॥ ३७३ ।। संकोचयति संरुद्धा विप्ररुद्धा. प्रबोधयेत् । एतत् सर्वं प्रकर्तव्यं भावनामात्रचिन्तनम् ॥ ३७४ ॥ उच्चाटेषु च सर्वेषु चायुतं प्रजपेत् सुधीः । शताभिजप्तमात्रेण रोचनातिलकं नरः ॥ ३७५ ।। कृला पश्यति यं मन्त्री तं कुर्याद् दासवत् प्रिये । दन्तेनानीयते चूर्णं कीलकं तेन कारयेत् ॥ ३७६ ।। यथा मधुघृताक्नेन पद्मिनीपत्रमात्रके । लिखेत् सूत्रावलीमध्ये मूलमन्त्रं विदर्भितम् ॥ ३७७ ।। तत् कुण्डचतुरस्रे च निक्षिप्य जुहुयादपि । सहस्रं चीरनीराक्तं पद्मानां लोहितत्रिपाम् ॥ ३७८ ॥