सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

षष्ठः पटलः । 58 ८ एषा पूजा हि देव्याश्च पूजैव सुरवन्दिते । सर्वधर्मान् परित्यज्य पूजामेतां करोति यः ॥ ३५५ ॥ स योगी च महात्मा च संसारात् त्रायते क्षणात् । अगम्यागमने पापं नास्ति तस्य वरानने ॥ ३५६ ॥ या कथा तव देवेशि तव स्तोत्रं वरानने । इतस्ततो यद्गमनं प्रदक्षिणमुदाहृतम् ॥ ३५७ ॥ ततः परं महादेवि धर्माधर्मो न जायते । अप्रकाश्यं महेशानि तव स्नेहात् प्रकाशितम् ।। ३५८ ।। मद्भक्तेभ्यो महेशानि प्रकाशमुपदाय च । अभक्तेभ्यो न दद्याद्धि दत्त्वा मृत्युमवाप्नुयात् ॥ ३५६ ॥ इति ते कथितं देव्यास्तर्पणं शृणु भैरवि । विद्याकामेन होतव्यं तिलाज्यं मधुसंयुतम् ॥ ३६० ॥ बिल्वपत्रं घृताक्तं च किंशुकं बकुलं तथा । बन्धूकपुष्पहोमेन राजा च दासतामियात् ॥ ३६१ ॥ सर्पिलवणहोमेन आकर्षयति कामिनीम् । कर्णिकारस्य होमेन सौभाग्यं लभते नरः ॥ ३६२ ॥ करवीरैश्च पुंनागैः पुष्टिमाप्नोत्यसंशयम् । राजवृक्षस्य होमेन सर्वसंपत्तिमान् भवेत् ॥ ३६३ ॥ दुर्वातिलाज्यहोमेन दीर्घायुष्टमवाप्नुयात् । संपूज्य मूलमन्त्रेण बिल्वपत्रैर्घृतान्वितैः ॥ ३६४ ॥ सहस्रं प्रत्यहं हुत्वा प्राप्नोति परमां गतिम् । घृताङ्गमालतीपुष्पहोमाद् द्रुतकविर्भवेत् ॥ ३६५ ॥ तर्पणस्य प्रसङ्गेन होमोऽयं कथितः शिवे । मधुना तर्पणं कुर्यात् सर्वकामफलप्रदम् ॥ ३६६ ॥