सामग्री पर जाएँ

पृष्ठम्:बृहन्नीलतन्त्रम्.djvu/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

S CO -- बृहन्नीलतन्त्रम् । एवं शक्तो यदा शक्तेः पूजनं भवमोचनम् । परीवादः पराभूतिर्हठादाकर्षणं स्त्रियाः ॥ ३४३ ॥ मनसापि न कर्तव्यं देवि सिद्धिं यदीच्छ(सिति)। रात्रौ च भ्रमणं देवि रात्रौ च शक्तिपूजनम् ॥ ३४४ ॥ न करोति यदा लोके साधकः कौलिकः कथम् । अनिन्दा सर्वभूतानां सर्वत्रैव दयान्वितः ॥ ३४५ ॥ बलिं विना महादेव्या हिंसा सर्वत्र वर्जिता । सदा सानन्दमनसा मम कामपरायणः ॥ ३४६ ।। चतुष्पथनमस्कारी श्मशानचारिपूजकः । अन्धकारसमास्थायी गुहासेवनतत्परः ॥ ३४७ ॥ परमामृतपूतात्मा मम प्रीतिपरायणः । शालिग्रामे ब्राह्मणे च निन्दां चैव विवर्जयेत् ॥ ३४८ ॥ एषां पूजां विशेषेण करोति कारयत्यपि । ब्राह्मणो ब्रह्मभावेन क्षत्रः क्षात्रेण शङ्करि ।। ३४६ ॥ वैश्यश्च(शू द्रवैश्य)भावेन प्रसन्नो विचरिष्यति । दिवा हविष्यभोजी स्यात् न स्पृशेदन्यपूरुषम् ॥ ३५० ॥ रात्रौ स्वीयगणैर्युक्तः पञ्चमीमाश्रयेच्छिवे । तव पूजापरो भूत्वा शक्तिभिः साधकैः सह ॥ ३५१ ।। नृत्यते गीयते यद्यत् तत् स्तोत्रं पूजनं तव । विना तीर्थाभिषेकेण नान्तः शुद्ध्यति भैरवि ॥ ३५२ ।। न भूयो याति शोकांश्च परत्र मोक्षभाग् भवेत् । न रूपदर्शने देवि संशयो नास्ति कश्चन ॥ ३५३ ।। इति पूजां महेशानि कृत्वा देवीपुरं वसेत् । अस्याः परतरा देवि नास्ति तन्त्रे महेश्वरि ।। ३५४ ।।