पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/४०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

निर्धारणे सामपीति तु नृत्यमाविश्चिकीर्षामः । सर्वप्रपञ्चसृष्टिसितिसंहरादिसर्वेश निरूपणपरेषु वेदान्तेषु, देवतान्तराणि नाम्नाऽपि न निर्दिश्येरनिति को नाम मन्येत ? तदत्र कारणप्रकरणेषु मुक्तिफलैौपयिकोषासमविधानप्रकरणेषु वा । देवता ध्यमांनाऽस्तीयेव तव एतन्निर्धारणप्रकृतैरस्माभिरधिजिगमिषितव्यम् । तत्र ईशोपनिषदि प्रथमं प्रयुक्तमीठं पश्चात् प्रयुकभारमपदव न निर्दीि विकिसं तत्र समर्पयेत् । [ अत्र च आदौ ईट्पदमेव; न तु ईशपदम् । ईश। बास्समिति च पदद्वयम् ; नैकं पदम् ; पदपाठादिशमष्यदिति श्रीदेशिकभाष्य एवं त्यक्तमस्ति ।] उपरि तु पूषमण्डले तेजोव्यूहनसमूह्नप्रार्थनेन किञ्चिदुक्तमस्ति, 'यत् ते रूपं कल्याणतमस्, तत् ते पदयामि, योऽसावसौ पुरुषः सोऽहमस्मी ति । तत्र दिव्यमङ्गलविग्रहः कश्चित् विस्पष्टं निर्दिष्टः । तच्च रूपं कस्येति जिज्ञासमनैरादित्यमण्डले करय रूपं प्रमाणान्तरेषु प्रसिद्धमस्तीति परीक्षणीयम् । तद् विष्णोरेवेति विष्णुपुरुणादयो विशदमेव वर्णयन्ति । छान्दोग्येषि एष हिरण्मय पुरुषः पुण्डरीकाक्ष इति प्रदर्शि । तथा पुरुषपदमप्यत्र प्रयुज्यमानं भगदत नारायण गेव ग्राहयति । 'अथ पुरुसो ह वै नाराधणोऽकामयत ’ इत्यादिश्रुतिप्रसिद्धः पुरुओो नारायणः । अत एवोत्तरनारायणाख्येन ‘अह्नयः संभूतः ’ इत्यनुवाकेन लक्ष्मी पतिवेन लक्षितं पुरुषं प्रतिपादयन् सुक्तं पुरुषसूक्तमियेव प्रथते । ज्योतिरधिकरण श्रुतप्रकाशिकायां पुरुषसूक्तस्य भगदपरस्वे तथैव नारायणस्य पुरुषपदमुख्यार्थत्वे च यावद् क्लब्यं प्रकाशितमस्तीति नेह तन्यते । स्कान्दे च शङ्करशब्दो महदेवे रूढ इति, पुरुषशब्दं वासुदेवे रूढं दृष्टन्तीय प्रतिबोधितमस्तीति च तन प्रकाशि, ‘यथा पुरुषशध्दोऽयं वसुदेवे प्रतिष्ठितः । तथा शङ्करशब्दोऽयं महादेवे प्रतिष्ठितः' इति । एवं दृष्टान्तीकरणादत्र निर्विवादप्रसिद्धिरवणमिता भवति । पुरुष शब्दस्य तिर्थगदिविसजातीये मनुष्यादिरूपे शरीरे प्रयोगश्च बहुरं भृतिषु प्रसिद्धः । तथा प्रकृतिपुरुषविवेकप्रकरणादिषु चेतनसमयेऽपि स शब्दः प्रयु ल्पते । तत् सकउचेतनविलक्षणतया कमिश्चत् पुरुते श्रुतिभिः प्रतिपायमाने स क इति जिज्ञासायां प्रमणप्रसिद्धिमनुसृत्य परवायुदेव एव प्रकृष्टपुसरो आयो भवति । भगवान् बादरायणश्च वैश्वानराधिकरणे, ‘पुरुषमपि चैनमधीयते' ,