पृष्ठम्:बृहदारण्यकोपनिषद्भाष्यम्.pdf/३५८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ श्रीरामानुजमुनिविरचितभष्ययुक्त [ अ.५.ब्रा.७, ‘तेषां सततयुक्तानां भजतां प्रीतिपूर्वकम् । ददामि बुद्धियोगं तं येन मामुपयान्ति ते ॥' इति । ननु कू परन्तं बस्नं दृष्ट उपेक्षमाणस्य, अनुमतिं कृतमतो वा पुंसो नैर्जुष्षादिप्रसति स्वहितकर्मभृत्पुरुषविषये उपेक्षवे व, अनुमतृवे वा, प्रयोजकवे वा सर्वेश्वरस्य तस्य निर्दयवादिकमवश्यम्भावीति चेत्-- शात्र प्रवर्तनमुखेन सामान्येन अहितप्रवृत्तिनिवारणस्य इवात् नोपेक्षणम् । ततःप्रवृक्ति काले विशेषतो निवारकाभावलक्षणमुपेक्षकवं तु स्वतन्त्रस्य न पर्यनुयोज्यम् । एतादृशस्वातन्त्र्यमेव दोष इति चेत् – तत्र किं प्रमाणम्? न प्रत्यक्षम् ; तस्ये श्वरविषये अप्रमाणत्वात् । नाप्यनुमानम् । तत्र हि किमीश्वरास्यं धर्मिणं शास्त्रैक समधिगम्यमभ्युपेत्य तस्वातन्त्र्यस्य दोषमनुमीयते, उजानश्शुभाम्य? अनभ्युपगने हेतोराश्रयासिद्धिः । अभ्युपागमे धर्मिग्राहकेण शस्त्रेण तस्य गुणस्वेन प्रतिपक्षवत् कालात्ययापदिष्टत्वम् । चिकीर्षपूर्वक्तमत्वेन समञ्जिकाबैलक्षणतथा नीस कर्तृत्व ने शास्त्रानर्थक्यम्; प्रवर्तकशनचिकीर्षयादकवेन सफश्यत् । काल दिक्ष सबाणकृतिहेतोरीश्वरस्य न वैषम्यादप्रसक्तिश्च । उक्तञ्च भवंत पराशरेण निमित्तमात्रमेत्रोस मृज्यनां सर्गकर्मणि। इति । निमित्तमात्रं = साधारण कारण?] मात्रमित्यर्थः । गीतश्च भगवताऽपि -- ‘तस्य कर्तारमपि मां विद्धकर्तारमव्ययम् । इति । साधरणकतरं विद्धि । असाधारणकर्तारं न विीति हि तस्यार्थः । उक्त व्यासायैः " वैयर्थं यावत् न स्यात्र विघनप्रतिषेधयोः । नियन्तृध्रुतेतावान् सङ्कोचो ने स्वकः परः "।। इति । मन्वेवं साधारणकारणं ’ व सर्वकायोंयतिसंभवे ईश्वरस्य प्रयोजकवानुम वादिकं ( अनुमन्तृचं प्रयोजकत्वादिकं ?) कुतोऽभ्युपगन्तव्यमिति चेत् कपभायामेवेदृशचोद्यवकाशः । 'अन्तःप्रविष्टः शस्ता जनानां सर्वामा', 'एष वे साधु कर्म कारयती' त्यादिप्रमाणप्रतिपन” ईदृशबोधनक्काशादिति स्थितम् ।। 1. चे. क 2. साधारण कर्तार, क. ४. अरणत्वादिमिरे, ऊ,