पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/९२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८४
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


यदाज्ञया वै सचराचरं च .
तमेकदन्तं शरणं व्रजामः॥२१
सर्वान्वरे संस्थितमेकगूढं
यदाज्ञया सर्वमिदं विभाति ।
अनन्तरूपं हृदि बोधक मे
तमेकदन्तं शरणं व्रजाम:॥२२
यं योगिनो योगबलेन साध्यं
कुर्वन्ति तं कः स्तवनेन स्तौति ।
अतः प्रणामेन सुसिद्धिदोऽस्तु
तमेकदन्तं शरणं व्रजामः॥२३
गृत्समद उवाच-
एवं स्तुत्वा च प्रह्लाद देवाः समुनयश्च वै।
तूष्णीम्मावं प्रपद्येव ननृतुर्हषसंयुताः ॥२४

। इति एकदन्तस्तोत्रं सम्पूर्णम् ॥