पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/९१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
८३
एकदन्तस्तोत्रम्

त्वदाज्ञया संहरको हरोऽपि
तमेकदन्तं शरणं व्रजामः ॥१७
यदाज्ञया भूर्जलमध्यसंस्था
यदाज्ञयाऽप: प्रवहन्ति नद्यः ।
सीमां सदा रक्षति वै समुद्र-
स्तमेकदन्तं शरणं व्रजामः॥१८
यदाज्ञया देवगणो दिविस्थो
ददाति वै कर्मफलानि नित्यम् ।
यदाज्ञया शैलगणोऽचलो वै
समेकदन्तं शरणं व्रगामः ॥१९
यदाज्ञया शेष इलाधरो वै
यदाज्ञया मोहप्रदश्व कामः ।
यदाज्ञया कालधरोऽर्यमा च
तमेकदन्तं शरणं व्रजामः ॥२०
यदाज्ञया वाति विभाति वायु-
र्यदाज्ञयाऽग्निर्जठरादिसंस्थः।