पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/९३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ महागणपतिस्तोत्रम् ॥

योग योगविदां विधूतविविधव्यासङ्गशुद्धाशय-
प्रादुर्भूतसुधारसप्रसृमरध्यानास्पदाध्यासिनांम् ।
आनन्दप्लवमानबोधमधुरामोदच्छटामेदुरं
तं भूमानमुपास्महे परिणतं दन्तावलास्यात्मना ॥ १
तारश्रीपरशक्तिकामवसुघारूपानुगं यं विदु-
स्तस्मै स्तात्मणविर्गणाधिपतये यो रागिणाभ्यध्यते
आमन्त्र्य प्रथमं वरेति वरदेत्यातेन सर्व जनं
स्वामिन्मे वशमानयेति सततं स्वाहादिभिः पूजितः।
कल्लोलाञ्चलचुम्बिवाम्बुदतताविक्षुद्रवाम्मोनिधौ
द्वीपे रत्नमये सुरद्रुमवनामोदैकमेखिनि ।
मूले कल्पतरोर्महामणिमये पीठेऽक्षराम्भोरुहे.
षट्कोणाकलितत्रिकोणरचनासत्कणिकेऽमुं भजे ॥
चक्रप्रासरसालकार्मुकगदासद्वीज़पूरद्विज
ब्रीसमोत्पलपाशपङ्कजकर शुण्डाप्रजाग्रद्धदम् ।