पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/६६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५८
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः


नानाभूषणकानि त्वमङ्गेषु विविधेषु च ।
भासुरस्वर्णरत्नैश्च निर्मितानि गृहाण भो ॥ ३१
अष्टगन्धसमायुक्तं गन्धं रक्तं गजानन ।
द्वादशाङ्गेषु ते ढुण्ढे लेपयामि सुचित्रवत् ॥ ३२
रक्तचन्दनसंयुक्तानथवा कुङ्कुमैर्युतान् ।
अक्षतान् विघ्नराज त्वं गृहाण मुखमण्डले ॥ ३३
चम्पकादिसुवृक्षेभ्यः सम्भूतानि गजानन ।
पुष्पाणि शमिमन्दारदूर्वादीनि गृहाण च ॥ ३४
दशाङ्गं गुग्गुलुं धूपं सर्वसौरभकारकम् ।
गृहाण त्वं मया दत्तं विनायक महोदर ॥ ३५
नानाजातिभवं दीपं गृहाण गणनायक ।
अज्ञानमलजं दोषं हरन्तं ज्योतिरूपकम् ॥ ३६
चतुर्विधान्नसम्पन्नं मधुरं लड्डुकादिकम् ।
नैवेद्यं ते मया दत्तं भोजनं कुरु विघ्नप ॥ ३७
सुवासितं गृहाणेदं जलं तीर्थसमाहृतम् ।
भुक्तिमध्ये च पानार्थ देवदेवेश ते नमः॥३८