पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/६७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५९
गणेशबाह्यपूजा


भोजनान्ते करोद्वर्तं यक्षकर्दमकेन च ।
कुरुष्व त्वं गणाध्यक्ष पिब तोयं सुवासितम् ॥ ३९
दाडिमं खर्जुरं द्राक्षां रम्भादीनि फलानि वै ।
गृहाण देवदेवेश नानामधुरकाणि तु ॥ ४०
अष्टाङ्गं देव ताम्बूलं गृहाण मुखवासनम् ।
असकृद्विघ्नराज त्वं मया दत्तं विशेषतः ॥ ४१
दक्षिणां काञ्चनाद्यां तु नानाधातुसमुद्भवाम् ।
रत्नाद्यैः संयुतां ढुण्ढे गृहाण सकलप्रिय ॥ ४२
राजोपचारकाद्यानि गृहाण गणनायक ।
दानानि तु विचित्राणि मया दत्तानि विघ्नप ॥ ४३
तत आभरणं तेऽहमर्पयामि विधानतः।
उपचारैश्च विविधैः तेन तुष्टो भव प्रभो ॥ ४४
ततो दूर्वाङ्कुरान्ढुण्ढे एकविंशतिसङ्ख्यकान् ।
गृहाण न्यूनसिद्धयर्थ भक्तवात्सल्यकारणात् ॥ ४५
नानादीपसमायुक्तं नीराजनमघापहन् ।
गृहाण भावसंयुक्तं सर्वाज्ञानाधिनाशन ॥ ४६