पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/६५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५७
गणेशबाह्यपूजा


यक्षकर्दमकाद्यैश्च स्नानं कुरु गणेश्वर ।
आन्त्यं मलहरं शुद्धं सर्वसौगन्ध्यैककारकम् ॥ २३
ततो गन्धाक्षतादींश्च दूर्वाङ्कूरान्गजानन ।
समर्पयामि स्वल्पांस्त्वं गृहाण परमेश्वर ॥ २४
ब्रह्मणस्पत्यसूक्तैश्च ह्येकविंशतिवारकैः।
अभिषेकं करोमि त्वं गृहाण द्विरदानन ॥ २५
तत आचमनं देव सुवासितजलेन च ।
कुरुष्व गणनाथ त्वं सर्वतीर्थभवेन वै ॥ २६
वस्त्रयुग्मं गृहाण त्वमनर्घं रक्तवर्णकम् ।
लोकलज्जाहरं चैव विघ्ननाथ नमोऽस्तु ते ॥ २७
उत्तरीयं सुचित्रं वै नभस्ताराङ्कितं यथा ।
गृहाण सर्वसिद्धीश मया दत्तं सुभक्तितः ॥ २८
उपवीतं गणाध्यक्ष गृहाण च ततः परम् ।
त्रैगुण्यमयरूपं तु प्रणवग्रन्थिबन्धनम् ॥ २९
ततः सिन्दूरकं देव गृहाण गणनायक ।
अङ्गलेपनभावार्थं सदानन्दविवर्धनम् ॥ ३०