पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५५
गणेशबाह्यपूजा


कृतार्थोऽहं कृतार्थोऽहं तवागमनतः प्रभो ।
विघ्नेशानुगृहीतोऽहं सफलो मे भवोऽभवत् ॥ ७
रत्नसिह्मासनं स्वामिन् गृहाण गणनायक ।
तत्रोपविश्य विघ्नेश रक्ष भक्तान्विशेषतः ॥ ८
सुवासिताभिरद्भिश्च पादप्रक्षालनं प्रभो ।
शीतोष्णाम्भः करोमि ते गृहाण पाद्यमुत्तमम् ॥ ९
सर्वतीर्थाहृतं तोयं सुवासित सुवस्तुभिः ।
आचमनं च तेनैव कुरुष्व गणनायक ॥ १०
रत्नप्रवालमुक्ताद्यैरनर्घैः संस्कृतं प्रभो ।
अर्घ्यं गृहाण हेरम्ब द्विरदानन तोषकम् ॥ ११
दधिमधुघृतैर्युक्तं मधुपर्कं गजानन ।
गृहाण भावसंयुक्तं मया दत्तं नमोऽस्तु ते ॥ १२
पाद्ये च मधुपर्के च स्नाने वस्रोपधारणे ।
उपवीते भोजनान्ते पुनराचमनं कुरु ॥ १३
चम्पकाद्यैर्गणाध्यक्ष वासितं तैलमुत्तमम् ।
अभ्यङ्गं कुरु सर्वेश लम्बोदर नमोऽस्तु ते ॥ १४