पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५६
बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

यक्षकर्दमकाद्यैश्च विघ्नेश भक्तवत्सल ।
उद्वर्तनं कुरुष्व त्वं मया दत्तैर्महाप्रभो ॥ १५
नानातीर्थजलैर्ढुण्ढे सुखोष्णभावरूपकैः ।
कमण्डलूद्भवैः स्नानं मया कुरु समर्पितैः ॥ १६
कामधेनुसमुद्भूतं पयः परमपावनम् ।
तेन स्नानं कुरुष्व त्वं हेरम्ब परमार्थवित् ॥ १७
पञ्चामृतानां मध्ये तु जलैः स्नानं पुनः पुनः ।
कुरु त्वं सर्वतीर्थेभ्यो गङ्गादिभ्यः समाहृतैः ॥ १८
दधि धेनुपयोद्भूतं मलापहरणं परम् ।
गृहाण स्नानकार्यार्थं विनायक दयानिधे ॥ १९
धेनोः समुद्भवं ढुण्ढे घृतं सन्तोषकारकम् ।
महामलापघातार्थं तेन स्नानं कुरु प्रभो ॥ २०
सारघं संस्कृतं पूर्णं मधु मधुरसोद्भवम् ।
गृहाण स्नानकार्यार्थं विनायक नमोऽस्तु ते ॥ २१
इक्षुदण्डसमुद्भूतां शर्करां मलनाशिनीम् ।
गृहण गणनाय त्वं तया स्नानं समाचर ॥ २२