पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५७०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ परमाद्वैतम् ॥

निर्विकारं निराकारं निरञ्जनमनामयम् ।
आद्यन्तरहितं पूर्णं ब्रह्मैवाहं न संशयः ॥
निष्कलंकम् निराभासं त्रिपरिच्छेदवर्जितम् ।
आनन्दमजमव्यक्तं ब्रह्मैवाहं न संशयः॥
निर्विशेषं निराकारं नित्यमुक्तमविक्रियम् ।
प्रज्ञानैकरसं सत्यं ब्रह्मैवाहं न संशयः ।।
शुद्धं बुद्धं स्वतस्सिद्धं परं प्रत्यगखण्डितम् ।
स्वप्रकाशं पराकाशं ब्रह्मैवाहं न संशयः ।।
सुसूक्ष्ममस्तितामात्रं निर्विकल्पं महत्तमम् ।
केवलं परमाद्वैतं ब्रह्मैवाहं न संशयः ।।

॥ इति परमाद्वैतम् ॥