पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५६९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति
५६१
वेदान्तडिण्डिमः


सालम्बनं निरालम्बं सर्वालम्बावलम्बितम् ।
आलम्बेनाऽखिलालम्ब मिति ...॥८८
न कुर्या न्न विजानीयात् सर्वं ब्रह्मेत्यनुस्मरन् ।'
यथा सुखं तथा तिष्ठेत् इति ...॥८९
स्वकर्मपाशवशगः प्राज्ञोऽन्यो वा जनो ध्रुवम् ।
प्राज्ञस्सुखं नयेत्काल मिति ...॥९०
न विद्वान् सन्तपे चित्तं करणाकरणे ध्रुवम् ।
सर्वमात्मेति विज्ञानात् इति .... ॥ ९१
नैवाssभासं स्पृशेत्कर्ममिथ्योपाधिमपि स्वयम् ।
कुतोऽधिष्ठानमत्यच्छमिति ...॥९२
अहोऽस्माक मलं मोहैरात्मा ब्रह्मेति निर्भयम् ।
श्रुतिभेरीरवोऽद्याऽपि श्रूयते श्रुतिरञ्जनः ।।९३
वेदान्तभेरीझवारः प्रतिवादिभयङ्करः ।
श्रूयतां ब्राह्मणैः श्रीमद्दक्षिणामूर्त्यनुग्रहात् ॥९४
इति श्रीमत्परमहंस परिव्राजकाचार्य श्रीमच्छङ्कर-
भगवत्पूज्यपादकृतिषु वेदान्तडिण्डिमः॥