पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५७१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ वाक्यवृत्तिः॥

सर्गस्थितिप्रलयहेतुमचिन्त्यशक्तिं विश्वेश्वरं विदित-
विश्वमनन्तमूर्तिम् । निर्मुक्तबन्धनमपारसुखाम्बुरांशि
श्रीवल्लभं विमलबोधघनं नमामि ॥१
यस्य प्रसादादहमेव विष्णुः मन्येव सर्व परि-
कल्पितं च । इत्थं विजानामि सदात्मरूपं तस्याङ्घ्रि-
पद्मं प्रणतोऽस्मि नित्यम् ॥२
तापत्रयार्कसन्तप्तः कश्चिदुद्विग्नमानसः ।
शमादिसाधनैर्युक्तः सद्गुरुं परिपृच्छति ॥ ३
अनायासेन येनास्मान्मुच्येयं भवबन्धनात् ।
तन्मे संक्षिप्य भगवन् कैवल्यं कृपया वद ॥४
साध्वी ते वचनव्यक्ति प्रतिभाति वदामि ते ।
इदं तदिति विस्पष्टं सावधानमनाः शृणु ॥
तत्वमस्यादिवाक्योत्थं यज्जीवपरमात्मनोः।
तादात्म्यं विषयज्ञानं तदिदं मुक्तिसाधनम् ॥ ६