पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५४४ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग: वैराग्यशेवधिर्विश्वभोक्ता सर्वोर्ध्वसंस्थितः । महाकर्ता महाभोक्ता महासंविन्मयो मधुः॥१२२ मनोवचोभिरग्राह्यो महाबिलकृतालयः । अनहङ्कृतिरछेद्यः स्वानन्दैकघनाकृतिः ॥ १२३ संवर्ताग्न्युदरस्सर्वान्तरस्थत्सर्वदुर्ग्रहः । . सम्पन्नस्सङ्क्रमत्सत्री सन्धाता सकलोर्जितः ॥ सम्प्रवृद्धरसन्निकृष्टः संविमृष्टस्समुत्सुकः । संघमस्थस्सन्दुर्दिस्थः सम्प्रविष्टस्समुत्सुकः ॥ १२५ सम्प्रदुष्टस्सन्निविष्टः संस्पृष्टस्सम्प्रमर्दनः सूत्रभूतस्वप्रकाश: समशीलस्सदादयः ।। सत्वसंस्थस्सुषुप्तिस्थः सुतल्पस्सत्वरूपगः । सङ्कल्पोल्लासनिर्मुक्तः समनीरागचेतनः ॥ १२७ आदित्यवर्णस्संज्योतिः सम्यग्दर्शनतत्परः महातात्पर्यनिलयः प्रत्यग्ब्रह्मैक्यनिश्चयः ॥ १२८ प्रपञ्चोल्लासनिर्मुक्तः प्रत्यक्षा प्रतिभात्मकः। प्रवेगः प्रमदार्धाङ्गः प्रनर्तनपरायणः ।। १२९