पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५३४ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

निर्विकल्पो निरालम्बो निर्विकारो निरामयः ॥ ४२ निरङ्कुशो निराधारो निरपायो निरत्ययः । गुहाशयो गुणातीतो गुरुमूर्तिर्गुहप्रियः ॥ ४३ प्रमाणं प्रणवः प्राज्ञः प्राणदः प्राणनायक: । सूत्रात्मा सुलभस्स्वच्छः सूदरस्सुन्दराननः ॥ ४४ कपालमालालङ्कारः कालान्तकवपुर्धरः । दुराराध्यो दुराधर्ष्यो दुष्टदूरो दुरासदः ॥ ४५ दुर्विज्ञेयो दुराचारनाशनो दुर्मदान्तकः । सर्वेश्वरः सर्वसाक्षी सर्वात्मा साक्षिवर्जितः ॥ ४६ सर्वद्वन्द्वक्षयकरः सर्वापद्विनिवारकः । सर्वप्रियतमस्सर्वदारिद्र्यक्लेशनाशनः ॥ ४७ द्रष्टा दर्शयिता दान्तो दक्षिणामूर्तिरूपभृत् । दक्षाध्वरहरो दक्षो दहरस्थो दयानिधिः ॥ ४८ समदृष्टिस्सत्यकामः सनकादिमुनिस्तुतः । पतिः पञ्चत्वनिर्मुक्तः पञ्चकृत्यपरायणः ॥ ४९ पञ्चयज्ञप्रियः पञ्चप्राणाधिपतिरव्ययः।