पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नटेशसहस्रनामस्तोत्रम् ५३५

पश्चभूतप्रभुः पश्चपूजासन्तुष्टमानसः ॥ ५० विघ्नेश्वरो विघ्नहन्ता शक्तिपाणिश्शरोद्भवः । गूढो गुह्यतमो गोप्यो गोरक्षी गणसवितः ॥ ५१ सुव्रतस्सत्यसङ्कल्पः स्वसंवेद्यस्सुखावहः । योगगम्यो योगनिष्ठो योगानन्दो युधिष्ठिरः ॥ ५२ तत्वावबोधस्तत्वेशः तत्वभावो तपोनिधिः । अक्षरस्त्र्यक्षरस्त्र्यक्षः पक्षपातविवर्जितः ॥ ५३ माणिभद्रार्चितो मान्यो मायावी मात्रिन्को महान् । कुठारभृत्कुलाद्रीशः कुञ्चितैकपदाम्बुजः ॥ ५४ यक्षराड्यज्ञफलदो यज्ञमूर्तिर्यशस्करः । सिद्धेशस्सिद्धिजनक: सिद्धान्तस्सिद्धवैभवः ॥ ५५ रविमण्डलमध्यस्थो रजोगुणविवर्जितः । वह्निमण्डलमध्यस्थो वर्षीयान्वरुणेश्वरः ॥ ५६ सोममण्डलमध्यस्थः सोमस्सौम्यस्सुहृद्वरः । दक्षिणाग्निर्हपत्यो दमनो दमनान्तकः ॥ ५७ चतुर्वक्त्रश्चक्रधरः पञ्चवक्त्रः परं तपः ।