पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नटेशसहस्रनामस्तोत्रम् ५३३

मोचको मोहविच्छेत्ता मोदनीयो महाप्रभुः ॥ ३४ व्युप्तकेशश्च विशदः विष्वक्सेनो विशोधक: । सहस्राक्षः सहस्राङ्घ्रिः सहस्रवदनाम्बुजः ॥ ३५ सहस्राक्षार्चितस्संराट् सन्धाता सम्पदालयः । बभ्रुर्बहुविधाकारो बलप्रमथनो बली ॥ ३६ मनोभर्ता मनोगम्यो मननैकपरायणः । उदासीन उपद्रष्टा मौनगम्यो मुनीश्वरः ॥ ३७ अमानी मदनोऽमन्युरमानो मानदो मनुः । यशस्वी यजमानात्मा यज्ञभुग्यजनप्रियः ॥ ३८ मीढुष्टमो मृगधरो मृकण्डतनयप्रियः । पुरुहूतो पुरद्वेषी पुरत्रयविहारवान् ॥ ३९ पुण्यः पुमान् पुरिशयः पूषा पूर्णः पुरातनः । शयनश्शन्तमः शान्तः शासकश्श्यामलाप्रियः ॥ ४० भावज्ञो बन्धविच्छेत्ता भावातीतोऽभयङ्करः । मनीषी मनुजाधीशो मिथ्याप्रत्ययनाशनः ॥ ४१ निरञ्जनो नित्यशुद्धो नित्यबुद्धो निराशयः ।