पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नटेशसहस्रनामस्तोत्रपूर्वपीठिका ५२७

तेन जित्वाऽसुरान् सर्वान् ररक्ष सकलं जगत् ॥ सार्वात्म्ययोगसिद्धिं च प्राप्तवानम्बुजेक्षणः । तदेव प्रार्थयस्यद्य नामसाहस्रमम्बिके ॥ १३ पठनान्मननाद्यस्य नृत्तं दर्शयति प्रभुः । सर्वपापहरं पुण्यं सर्वरक्षाकरं नृणाम् ॥ १४ सर्वैश्वर्यप्रदं सर्वसिद्धिदं मुक्तिदं परम् । वक्ष्यामि शृणु हे देवि नामसाहस्रमुत्तमम् ॥ २५

॥ इति पूर्वपीठिका ।