पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीनटेशसहस्रनामस्तोत्रम् ॥

ओं अस्य श्रीनटेशसहस्रनामस्तोत्रमहामन्त्रस्य स- दाशिवऋषिः, महाविराट्छन्दः, श्रीमन्नटेशो देवता । बीजं, शक्तिः, कीलकं, अङ्गन्यासकरन्यासौ च चिन्तामणिमन्त्रवत् ।

॥ ध्यानम् ॥

ध्यायेत्कोटिरविप्रभं त्रिणयनं शीतांशुगङ्गाधरं दक्षाङ्घ्रिस्थितवामकुञ्चितपदं शार्दूलचर्माम्बरम् । वह्निं डोलकराभयं डमरुकं वामे शिवां श्यामलां कह्लारां जपसूक्शुकां कटिकरां देवीं सभेशं भजे ॥ लं पृथिव्यात्मन इत्यादिना पञ्चपूजा कार्या श्रीशिव-उवाच- श्रीशिवः श्रीशिवानाथ: श्रीमान् श्रीपतिपूजितः । शिवङ्कुरश्शिवतरश्शिष्टहृष्टश्शिवागमः ॥ १ अखण्डानन्दचिद्रूपः परमानन्दताण्डवः ।