पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५२६ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

श्री शिव उवाच- साधु साधु महादेवि पृष्टं सर्वजगद्धितम् । पुरा नारायणः श्रीमान् लोकरक्षापरायणः ॥ ५ क्षीराब्धौ सुचिरं कालं साम्बमूर्तिधरं शिवम् । मामेकाप्रेण चित्तेन ध्यायन् न्यवसदच्युतः ॥ ६ तपसा तस्य सन्तुष्टः प्रसन्नोऽहं कृपावशात् । ध्यानात्समुत्थितो विष्णुर्लक्ष्म्या मां पर्यपूजयत् ॥ ७ तुष्टाव विविधैस्स्तोत्रैर्वेदवेदान्तसम्मितैः । वरं वरय हे वत्स यदिष्टं मनसि स्थितम् ॥ ८ तत्ते दास्यामि न चिरादित्युक्तः कमलेक्षणः । प्राह मां परया भक्त्या वरं दास्यसि चेत्प्रभो ॥ ९ रक्षार्थं सर्वजगतामसुराणां क्षयाय च । सार्वात्स्ययोगसिद्ध्यर्थं मन्त्रमेकं ममादिश ॥ १० इति सम्प्रार्थितस्तेन माधवेनाहमम्बिके । सञ्चिन्त्यानुत्तमं स्तोत्रं सर्वेषां सर्वसिद्धिदम् ॥ ११ नटेशनामसाहस्रमुक्तवानस्मि विष्णवे ।