पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

॥ श्रीशिवप्रतिपादनस्तोत्रम् ॥

नमसे सर्वलोकानां सृष्टिस्थित्यन्त कारण । नमस्ते भवभीतानां भवभीति विमर्दन ॥ १ नमस्ते वेदवेदान्तै रचनीय द्विजोत्तमैः । नमस्ते शूलहस्ताय नमस्ते वह्निपाणये ॥ २ नमस्ते विश्वनाथाय नमस्ते विश्वयोनये । नमस्ते नीलकण्ठाय नमस्ते कृत्तिवाससे ॥ ३ नमस्ते सोमरूपाय नमस्ते सूर्यमूर्तये । नमस्ते वह्निरूपाय नमस्ते तोयमूर्तये ॥ ४ नमस्ते भूमिरूपाय नमते वायुमूर्तये । नमस्ते व्योमरूपाय नमस्ते ह्यात्मरूपिणे ॥ ५ नमस्ते सत्यरूपाय नमस्ते सत्यरूपिणे । नमस्ते सुखरूपाय नमस्ते सुखिरूपिणे ॥ ६ नमस्ते पूर्णरूपाय नमस्ते पूर्णरूपिणे । नमस्ते ब्रह्मरूपाय नमस्ते ब्रह्मरूपिणे ॥ ७