पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५१०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५०२ बृहत्स्तोत्ररत्नाकरे - प्रथमभागः

नाभिकन्दे प्रविष्टाय नमो हृद्देशवर्तिने । सच्चिदानन्दपूर्णाय नमस्साक्षात्परात्मने ॥ ८ नमश्शिवायाद्भुतविक्रमाय ते नमश्शिवायाद्भुत- विग्रहाय ते । नमश्शिवायाखिलनायकाय ते नम- श्शिवायामृत हेतवे नमः ॥ ९ सूतः - य इदं पठते नित्यं स्तोत्रं भक्त्या सुसंयतः । तस्य मुक्ति करस्था स्याच्छङ्करप्रियकारणात् ॥ १० विद्यार्थी लभते विद्यां विवाहार्थी गृही भवेत् । वैराग्यकामो लभते वैराग्यं भवतारकम् ॥ ११ तस्माद्दिने दिने यूयमिदं स्तोत्रं समाहिताः । पठन्तु भवनाशार्थमिदं वो भवनाशनम् ॥ १२

इति श्रीस्कान्दे महापुराणे सूतसंहितायां बृहस्पतिकृतः ॥ शिवनवरत्नस्तवः ॥