पृष्ठम्:बृहत्स्तोत्ररत्नाकरः (प्रथमः भागः).pdf/५१२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

५०४ बृहत्स्तोत्ररत्नाकरे - प्रथमभाग:

नमस्ते जीवरूपाय नमस्ते जीवरूपिणे । नमस्ते व्यक्तरूपाय नमस्ते व्यक्तरूपिणे ॥ ८ नमस्ते शब्दरूपाय नमस्ते शब्दरूपिणे । नमस्ते स्पर्शरूपाय नमस्ते स्पर्शरूपिणे ॥ ९ नमस्ते रूपरूपाय नमस्ते रूपरूपिणे । नमस्ते रसरूपाय नमस्ते रसरूपिणे ॥ १० नमस्ते गन्धरूपाय नमस्ते गन्धरूपिणे । नमस्ते देहरूपाय नमस्ते देहरूपिणे ॥ ११ नमस्ते प्राणरूपाय नमस्ते प्राणरूपिणे । नमस्ते श्रोत्ररूपाय नमस्ते श्रोत्ररूपिणे ॥ १२ नमस्ते त्वक्स्वरूपाय नमस्ते त्वक्स्वरूपिणे । नमस्ते दृष्टिरूपाय नमस्ते दृष्टिरूपिणे ॥ १३ नमस्ते रसरूपाय नमस्ते रसरूपिणे । नमस्ते घ्राणरूपाय नमस्ते घ्राणरूपिणे ॥ १४ नमस्ते पादरूपाय नमस्ते पादरूपिणे । नमस्ते पाणिरूपाय नमस्ते पाणिरूपिणे ॥ १५